Samskrita Shiva Geetam, Devotional Song in Samskrita-Jagatkarana
शिव एव मम दैवतं चेति, मदीयां भावनां ज्ञापयितुं मया लिखितं, रागबद्धम्, आलपितं, च गीतमिदम्। पूर्वं तेलुगौ कृतं, ततश्च संस्कृते अनूदितम्। शिवस्य (तिरुपति-अविलाल-कपिलेश्वरस्वामिनः) चरणयोः सभक्ति समर्प्यते। :)
-उषाराणी सङ्का
जगत्कारण भवानीपते शिव मामव
दयायै तव, त्वामुपगन्तुं
आलयद्वारे तिष्ठाम्यहम् ॥
मन्दिरे तव शान्तिर्भवति
आयतनं ते हि मे विश्रान्तिः
त्वां वीक्षितुं, त्वामुपलब्धुं हि
व्याकुलतेयम्.. ॥जगत्कारण ॥
कण्ठं भित्वायाति न रवः
पूर्णे मनसि पृच्छा तव
त्वय्यनुपगते मम जन्मेदं
व्यर्थं किल.. ॥ जगत्कारण ॥
तव स